- 1.आचमन ऐं आत्म तत्वं शोध्यामि नमः स्वाहा ॥ ह्रीं विद्या तत्वं शोध्यामि नमः स्वाहा ॥ क्लीं शिव तत्वं शोध्यामि नमः स्वाहा ॥ ऐं ह्रीं क्लीं सर्व तत्वं शोध्यामि नमः स्वाहा ॥
- 2.गुरुवन्दन
- 3.सङ्कल्प देश कालौ सङ्कीर्त्य ममोपात्त समस्त दुरित क्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं श्रीगुरोराज्ञया श्रीचण्डिका परमेश्वरी परमप्रीत्यर्थं सप्तशति महामन्त्र पारायणम् अद्य करिष्ये ॥
सङ्कल्पेविशेष: सहस्र-फणामणि-मण्डल-मण्डितस्य शेष-पर्यङ्क-शयानस्य भगवतः श्रीमन्नारायणस्य सृष्ट्यादौ नाभि कमलात्-आविर्भूतस्य ब्रह्मणः संरक्षणार्थं विष्णुकर्ण मलोद्भूतयोः मधुकैटभयोः निग्रहार्थं ब्रह्मणा संप्रार्थितायाः विष्णोः नेत्र-आस्य-नासिका-बाहु हृदयेभ्यः उरसश्च आविर्भूतायाः दशवक्त्रायाः दशभुजायाः दशपादायाः नीलमणिद्युतेः रूप सौभाग्य-कान्तीनां परम-प्रतिष्ठायाः श्रीमहाकाल्याः-ससैन्य महिषासुर निग्रहार्थं सर्वदेव शरीरेभ्यो ज्योतिरूपेण आविर्भूतायाः अष्टादशभुजायाः प्रवालवर्णायाः कमलासनस्थायाः त्रिगुणात्मिकायाः महिषमर्दिन्याः श्रीमहालक्ष्म्याः- ससैन्य शुम्भ निशुम्भ धूम्रलोचन चण्ड मुण्ड रक्तबीजादि निग्रहार्थं गौरी देहात् समुद्भूतायाः ब्राह्म्यादि शक्ति सहितायाः स्फटिक वर्णायाः अष्टभुजायाः सर्वज्ञत्व-प्रदायाः श्रीमहासरस्वत्याः लोक संरक्षणार्थं नन्दा रक्तदन्तिका शाकम्भरी भीमा दुर्गा भ्रामरी-रूपेण कृतावतारायाः एतासां समष्टि-रूपेण विरजन्त्याः श्रीचण्डिका परमेश्वर्याः ‘एभिस्स्तवैश्च मां नित्यं स्तोष्यते यः मानवः तस्याहं सकलां बाधां शमयिष्यामि-असंशयं’ इति श्रीदेव्योक्त प्राकारेण स्तोतॄणां सकलबाधा-निवृत्ति-प्रदायाः ‘यत्रैतत्पठ्यते सम्यक् नित्यमायतने मम। सदा न तत् विमोक्ष्यामि सान्निध्यं तत्र मे स्थितं ‘च’ सर्वं ममैतन्माहात्म्यं मम सन्निधिकारणं’ इति च श्रीदेव्योक्त प्राकारेण उपासकानां गेहे नित्यं सन्निहितायाः ‘श्रुतं हरति पापानि तथारोग्यं प्रयच्छति’ इति श्रीदेव्योक्त प्राकारेण सकृत् श्रवणादेव सकल पापहर पूर्वक सकल आरोग्य प्रदायाः ‘सर्वाबाधासु घोरासु वेदनाभ्यर्दि तोऽपि वा।स्मरन् ममैतच्चरितं नरो मुच्यते सङ्कटात्’ इति श्रीदेव्या दत्त वरप्रदानेन स्मरणादेव सकल शत्रुबाधा निवृत्ति-प्रदायाः’श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः” इति श्रीदेव्योक्तरीत्या सर्वसम्पत्प्रद विचित्र पवित्र चरित्र वैभवायाः ‘उपसर्गानशेषांस्तु महामारी समुद्भवान्। तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम’ इति श्रीदेव्योक्त प्राकारेण महामार्यादि रोगणां स्मरणादेव शान्ति प्रदायाः परदेवतायाः श्रीजगन्मातुः प्रसाद सिद्ध्यर्थं श्रीजगन्मातुः प्रसादात् आसेतु हिमाचल निवसतां आस्तिक महाजनानां आबाल वृद्धानां द्विपदां चतुष्पदां च क्षेमावाप्त्यर्थं पुत्र पशु विद्या ऐश्वर्य धन धान्य गृह आराम क्षेत्रादि अभिवृद्ध्यर्थं श्रीपरदेवतायाः परम प्रीतिकर शापोद्धार उत्कीलन मन्त्रजप-कवच अर्गल कीलक-नवाक्षर मन्त्रजप-रात्रीसूक्त पठन पूर्वक मार्कण्डेय पुराणान्तर्गत सावर्णि मन्वन्तरे त्रयोदशाध्यायात्मक सप्तशत मन्त्ररूप चण्डिकाख्य पठनं तदन्तरं देवीसूक्त नवाक्षर मन्त्रजप रहस्-त्रय उत्कीलन मन्त्रजपं करिष्ये॥
- 4.आसन पूजा ३-सौः – द्वादश- वाराभिमन्त्रित जलं मूलेन प्रोक्ष्य, ३- ॐ ह्रीं आधारशक्तिकमलासनाय नमः – उपविश्य
- 5.भूमि पूजा ३-रक्त द्वादश शक्ति युक्ताय द्वीपनाथाय नमः – भूमौ पुष्पाञ्जलि
- 6.दीपपूजा ३-दीपदेवि महादेवि शुभं भवतु मे सदा । यावत् पूजा समाप्ति स्यात् तावत् प्रज्वल सुस्थिरा ||
- 7.वर्धनीस्थापन गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
सर्वे समुद्राः सरितः तीर्थानि च नदा हृदाः।आयान्तु देवी पूजार्थं दुरित क्षय कारकाः ॥
- 8.भूतशुद्धि
- 9.विघ्नोत्सारण
- 10.शापोद्धारणमन्त्रः ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिके देवि शापनाशानुग्रहं कुरु कुरु स्वाहा – सप्तवारं
- 11.उत्कीलनमन्त्रः ॐ श्रीं क्लीं ह्रीं सप्तशति चण्डिके उत्कीलनं कुरु कुरु स्वाहा – एक विंशति वारं
- 12.सप्तशतीसरस्वतीपूजनं (पुस्तकपूजनम् )
ॐ नमः पिशाचनि करङ्किनि त्रिशूल-खड्ग-हस्ते सिंहारूढे एहोहि आगच्छ आगच्छ इमां पूजां गृह्ण गृह्ण स्वाहा। श्रीसप्तशती सरस्वत्यै नमः आवाहयामि ॥ (ततः ॐ ह्रीं चण्डिकायै नमः इति मन्त्रेण षोडशोपचारैः पूजयेदिति ॥)
ॐ ह्रीं चण्डिकायै नमः इदं इदं आसनं महासिंहासनं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः पादयोः पाद्यं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः हस्तयोरर्घ्यं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः मुखे आचमनीयं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः मधुपर्कं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः आचमनीयं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः स्नपयामि नमः स्नानानन्तरं आचमनीयं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः दिव्य-परिमळ-गन्धं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः अक्षतान्कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः रक्तवसनं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः किरीट-कुण्डलादि सर्वाभरणानि कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः उपवीतं कल्पयामि नमः
ॐ ह्रीं चण्डिकायै नमः पुष्पैः पूजयामि नमः
ॐ ह्रीं चण्डिकायै नमः धूपं आघ्रापयामि नमः
ॐ ह्रीं चण्डिकायै नमः दीपं दर्शयामि नमः
ॐ ह्रीं चण्डिकायै नमः नैवेद्यं निवेदयामि नमः
ॐ ह्रीं चण्डिकायै नमः कर्पूर ताम्बूलं कल्पयामि नमः
- 13.कवच, अर्गल, कीलकपठनं
- 14.एकाशन्यासः (मातृका- मूल मन्त्र- न्यास: अत्यावश्यक:)
- 15.नवाक्षरीमुलमन्त्रन्यासः 108 जप (उत्तर न्यासादीन् न कुर्यात्)
- 16.वैदीक / तान्त्रीकरात्रीसूक्तं
- 17.सप्तशतीन्यासः (उत्तर न्यासादीन् न कुर्यात्)
- 18.१– १३अध्यायःपठनं
- 19.सप्तशतीउत्तरन्यासः
- 20.वैदीक / तान्त्रीकदेवीसूक्तं
- 21.नवाक्षरीमुलमन्त्र 108 जप -उत्तर न्यासादीन् कुर्यात् – जप समर्पणं
- 22.रहस्यत्रयपठनं
- 23.क्षमाप्रार्थना
- 24.उत्कीलनमन्त्रः ॐ श्रीं क्लीं ह्रीं सप्तशति चण्डिके उत्कीलनं कुरु कुरु स्वाहा – एक विंशति वारं
- 25.पारायणसमर्पणं
॥दुर्गासप्तशतीपारायणनियमः॥
Rules while chanting Durgā Saptaśati, some points to be remembered
- शापोद्धारण मन्त्र: ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिके देवि शापानुग्रहं कुरु कुरु स्वाहा- Some people chant like this but is not correct
- वैदीक रात्रीसूक्तस्य प्रति तान्त्रीक रात्रीसूक्त – १ अध्याय ‘विश्वेश्वरीं जगद्धात्रीं
- वैदीक देवी सूक्तस्य प्रति तान्त्रीक देवीसूक्त – ५ अध्याय ‘ नमो देव्यै महादेव्यै+
- संक्षिप्त पाठं २-३-४ (मध्यम चरित्रं – रहस्यत्रये – एकेन वा मध्येन न एकेन इस्तरयोरिह- इति दृष्टव्यं
- स्तोत्रमात्र पाठक्रमं – १-४-५-११ अध्याय
- “इति” शब्दो हरेल्लक्ष्मी “वध” कुल-विनाशकः । “अध्यायो” हरते प्राणान् मार्कण्डेयादिक वदेत्। ॥
After chanting a chapter in Durgā Saptaśati, at the end, the person should not say ‘iti’ or ‘Vadha’ or ‘adhyāya’. If ‘iti’ is chanted then prosperity will be destroyed in that home, where the Candi Pārāyṇa was performed. If “vadha” is chanted then their family lineage will be destroyed. If ‘adhyāya’ is uttered then it causes life force to be extinguished. All the above rules are as said by Sage Mārkandeya.
Eg: ॥ इति स्वस्तिश्री-मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः ॥१॥
- आधारे स्थापयित्वा तु पुस्तकं वाचयेत्ततः ।हस्ते संस्थाप्यनाद् देवि हन्त्यर्धं फलं यतः ॥
ध्यात्वा देवीं पञ्चपूजां कृत्वा योन्या प्रणम्य च।आधारं स्थाप्य मूलेन स्थापयेत्तत्र पुस्तकम् ॥
While performing Pārāyṇa one has to place the Saptaśati book on a pedestal. If the book is held in the hand and Pārāyṇa is done, then the merit obtained will be reduced to half. Initially Candikā should be meditated, five upacāra pūja is to be performed, namaskāra to be performed by showing yoni mudrā and then uttering the mūla mantra one should place the book on the pedestal.
सप्तशती पाठेङ्ग षट्कस्य मुख्यतां अपठने दोषं चाह ।
अङ्गहीनो यथा देही सर्कर्मसु न क्षमः । अङ्गषट्कविहीना तु तथा सप्तशती स्तुतिः ॥
तस्मादेतात्पठित्वैवं जपेत् सप्तशतीं परम् ।अन्यथा शापमाप्नोति हानिं चैव पदे पदे ॥
अङ्गषट्कं विजानीयात् कवच-अर्गल-कीलकैः ।रहस्य-त्रितयेनैव सहितै र्मन्मथेश्वर ॥
रावणाद्याः स्तोत्रं एतदङ्गहीनं निषेविरे ।हता रामेण ते तस्मान्नाङ्गहीनं पठेत्ततः ॥
कात्यायनी तन्त्रे ॥
Saptaśati procedure includes (mukhya Ṣaḍaṅgas) six main parts. if these six parts are left and Durgā Saptaśati is chanted then, curse will be on him with miseries will befall the chanter.
Kavaca, argala, kīlaka and three rahasyas constitute these six parts. Kātyāyani tantra quotes- Ravana and others chanted the Saptaśati without Ṣaḍaṅgas and hence were killed.
रात्रीसूक्तं जपेदादौ मध्ये सप्तशतीस्तवं ।अन्ते च देवीसूक्तानि रहस्यं तदनन्तरम् ॥
जपेन्नवाक्षरं मन्त्रमथवाष्टोत्तर शतं ।शतमादौ शतं चान्ते सप्तशतीं जपेत् ॥
Ratri sūkta to be chanted first, in the middle Saptaśati to be chanted and in the end devi sūkta to be chanted. Navārṇa mantra to be chanted 108 times before and after the chanting (here it means before ratri sūkta and also after devī sūkta in the end)
- There is also another procedure followed in Kerela which is called Navāṅga
न्यासं आवाहनं चैव नामन्यर्गल कीलकं। हृदयं च दलं चैव ध्यानं कवचमेव च।
माहात्मयं च पठेन्नित्यं अष्टम्यां तु विशेषतः।सौभाग्यं च लभेन्नित्यं नरो मुच्येत संकटात्॥
The nine parts are 1-Nyāsa 2-Āvāhana 3-Nāmānī (of 64 yoginis) 4-Argala 5-Kīlaka 6-Hrdaya 7-Dala 8-Dhyāna and 9, Kavaca. In this krama, sūktas, Navākshari and Rahasya traya are not seen.
- There is also another procedure which is called Dasāṅga as per Haragauri Tantra
न्यासो ध्यानावाहने च नाम-सूक्तं चाप्यनु । दलं च हृदयं चैव कवच-अर्गल-कीलकम्॥
दशाङ्गं एतत्-विज्ञेयं इति गुह्यं सनातनम् । दशाङ्गानि च जप्त्वा तु पश्चात्-सप्तशतीं पठेत्॥
In addition to the nine parts described above (h), three nāma-sūktas (Not the vaidika rātri or devī sūkta) are to be chanted.





